मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८८, ऋक् ५

संहिता

प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।
न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥

पदपाठः

प्र । हि । रि॒रि॒क्षे । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ ।
न । त्वा॒ । वि॒व्या॒च॒ । रजः॑ । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥

सायणभाष्यम्

हे इन्द्र दिवोद्युलोकस्य पर्यंतेभ्यः ओजसा हिरवधारणे स्वबलेनैव प्ररिरिक्षे प्रकर्षेणातिरिक्तोभवसि रिचेर्लेटिबहुलंछन्दसीतिश्लुः । प्रत्ययस्वरः । किंच हे इन्द्र पार्थिवं पृथिव्यां भवो रजोलोकः त्वा त्वां महता स्वशरीरेण नविव्याच नव्याप्नोति द्यावापृथिवीभ्यामपि स्वतः सत्वं बलेन समर्थो- भवसीत्यर्थः । एवंभूतःसन् अस्माकं स्वधामन्नमुदकंवा नु ववक्षिथ अनुवोढुमिच्छ । वहेः सन्नंतस्य छान्दसेलिटिरूपं मंत्रत्वादामभावः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११