मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८८, ऋक् ६

संहिता

नकि॒ः परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।
अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥

पदपाठः

नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ ।
अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः । वाज॑ऽसातये ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र ते तव मघस्य मंहनीयस्य धनस्य परिष्टिः परिबाधको निरोद्धा नकिर्नकश्चिदस्ति यद्यदा दाशुषे हविर्दत्तवते यजमानाय दशस्यसि धनंप्रयच्छसि तदा तस्य निरोधकोनास्तीत्यर्थः । तथासति चोदिता धनानां चोदयिता स्तोतृभ्यः प्रेरयिता अतएव मंहिष्ठोदातृतमो मंहनीयोवा सत्वं अस्माकं संबन्धि उचथस्य स्तोत्रं वाजसातये अन्नलाभाय तदर्थं क्रियमाणमिति बोधि बुधबोधने भौवादिकः लोटि छान्दसः शपोलुक् ध्यादेशः ॥ ६ ॥

बृहदिन्द्रायेति सप्तर्चं नवमं सूक्तं नृमेधपुरुमेधावृषी तौचानुक्तत्वादांगिरसौ आदितोद्वौ प्रगाथौ पंचमीषष्ठ्यावनुष्टुभौ सप्तमीबृहती इन्द्रोदेवता । तथाचानुक्रम्यते-बुहदिन्द्रायसप्त नृमेधपुरुमेधौ ड्यनुष्टुब्बृहत्यंतमिति । चातुर्विंशिकेहनि मरुत्वतीये प्राकृतान्मरुत्वतीयात्प्रगाथादूर्ध्वं द्वौ मरुत्व- तीयौ प्रगाथौ शंसनीयौ बृहदिन्द्रायगायतेत्ययमाद्यः प्रगाथः पृष्ठ्याभिप्लवषडहयोः द्वितीयहनि अयंप्रगाथः । सूत्रितंच-बृहदिन्द्रायगायत नकिः सुदासोरथमिति मरुत्वतीयऊर्ध्वं नित्याइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११