मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८९, ऋक् ६

संहिता

तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥

पदपाठः

तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः ।
तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥

सायणभाष्यम्

हे इन्द्र यद्यदा त्वमजायथाः तत्तदानीं ते त्वदर्थो यज्ञोग्निष्टोमादिरजायत सोमपानार्थमभूत् । उतापिच तदानीं हस्कृतिः । हसे हसने । हासकारी प्रीत्यर्थं क्रियमाणो हर्षस्य सूचकः अर्कः अर्चनीयो मन्त्रोपि अजायत । किंच तदा यज्जातं भूतजातं यच्च जन्त्वं कृत्यार्थेत्वन्प्रत्ययः जनितव्यं

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२