मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९०, ऋक् १

संहिता

आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्र॑ः स॒मत्सु॑ भूषतु ।
उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥

पदपाठः

आ । नः॒ । विश्वा॑सु । हव्यः॑ । इन्द्रः॑ । स॒मत्ऽसु॑ । भू॒ष॒तु॒ ।
उप॑ । ब्रह्मा॑णि । सव॑नानि । वृ॒त्र॒ऽहा । प॒र॒म॒ऽज्याः । ऋची॑षमः ॥

सायणभाष्यम्

ऋषिरनयेन्द्र एवंकरोत्वित्याशास्ते । विश्वासु सर्वासु समत्सु असुरयुद्धेषु हव्यः सर्वैःदेवैरात्मरक्षणार्थमाह्वातव्यः एतादृशइन्द्रः नोस्माकं ब्रह्माणि हवीरूपाण्यन्नानि वा उपाभूषतु उदकं अनुभावयतु सेवतामित्यर्थः । यद्वा एतानि अलंकरोतु तदागमनेन स्तोत्राणि हवींषि वा अलंकृतानि भवन्ति । तथा सवनानि प्रातः सवनादीनि त्रीणिसवनानि च भूषतु । कीदृशइन्द्रः वृत्रहा वृत्रस्यासुरस्य पापस्यवा हन्ता । परमज्याः युद्धेषु शत्रुहननार्थं परमा अविनश्वरीज्या मौर्वी यस्य सतथोक्तः । यद्वा परमान् बलेन प्रकृष्टान् शत्रून् जिनाति हिनस्तीति परमज्याः । ऋचीषमः स्तुत्या समः स्तुतिभिरभिमुखीकरणीय एतादृगिन्द्रः स्तोत्राणि भूषत्विति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३