मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९०, ऋक् २

संहिता

त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।
तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥

पदपाठः

त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒ऽकृत् ।
तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः । म॒हः ॥

सायणभाष्यम्

हे इन्द्र प्रथमः सर्वेषां मुख्यस्त्वं राधसां धनानां दातासि यद्वा धनदातॄणां मध्ये त्वं प्रथमआदिमोभवसि । तथा ईशानकृत् तवस्तोतॄनीशाना- नैश्वर्ययुक्तान् कुर्वन् त्वं सत्यः सत्यकर्मासि यथार्थकर्मा भवसीत्यर्थः । यस्मादेवं तस्माद्वयं तुविद्युम्नस्य बहुधनवतः बह्वन्नस्यवा शवसोबलस्य- पुत्रस्य शत्रुवधार्थं बलकारणत्वेनोत्पन्नत्वात् तत्पुत्रस्य अतएव महोमहतस्तव युज्या योग्यानि धनानि आवृणीमहे संभजामहे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३