मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९०, ऋक् ४

संहिता

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ ।
स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥

पदपाठः

त्वम् । हि । स॒त्यः । म॒घ॒ऽव॒न् । अना॑नतः । वृ॒त्रा । भूरि॑ । नि॒ऽऋ॒ञ्जसे॑ ।
सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒ऽह॒स्त॒ । दा॒शुषे॑ । अ॒र्वाञ्च॑म् । र॒यिम् । आ । कृ॒धि॒ ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र सत्यः सत्यकर्मा त्वमेव अनानतः केषामत्पप्रह्वः सन् भूरि भूरीणि वृत्रा वृत्राणि रक्षांसि न्यृंजसे तानि प्रह्वीभावयसि न्यक्करोषीत्यर्थः । हिरवधारणे । हेशविष्ठ बलेनवृद्धतम हे वज्रहस्त वज्रोहस्ते यस्य सतथोक्तः । हे इन्द्र सतादृशस्त्वं दाशुषे तुभ्यं हविर्दत्त- वते यजमानाय रयिं धनादिकं अर्वांचं अर्वाचीनं अभिमुखं यथागच्छति तथा आकृधि समन्तात्कुरु ॥ ४ ॥ चातुर्विंशिकेहनिमाध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे त्वमिन्द्रयशाप्रगाथोवैकल्पिकोनुरूपः । सूत्र्यतेच-त्वमिन्द्रयशाअसीन्द्रक्रतुंनआभरेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३