मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९०, ऋक् ५

संहिता

त्वमि॑न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।
त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । य॒शाः । अ॒सि॒ । ऋ॒जी॒षी । श॒व॒सः॒ । प॒ते॒ ।
त्वम् । वृ॒त्राणि॑ । हं॒सि॒ । अ॒प्र॒तीनि॑ । एकः॑ । इत् । अनु॑त्ता । च॒र्ष॒णि॒ऽधृता॑ ॥

सायणभाष्यम्

हे शवसस्पते बलस्य पालयितः हे इन्द्र ऋजीष्युपार्जितोभिषुतः सोमः तद्वान् त्वं यशाः यशस्व्यसि भवसि । कथमस्य यशस्वित्वं तदाह-अप्रतीनि बलिभिरप्यप्रतिगतानि अतएव अनुत्ता अन्यैर्नोतुमशक्यानि वृत्राणि रक्षांसि त्वमेकइत् असहायएव चर्षणिधृता असुरादिहननद्वारेण मनुष्याणां धारकेण वज्रेण हंसि संप्रहरसि । अतएवास्य यशस्वित्वम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३