मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १

संहिता

पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत ।
वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥

पदपाठः

पान्त॑म् । आ । वः॒ । अन्ध॑सः । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
वि॒श्व॒ऽसह॑म् । श॒तऽक्र॑तुम् । मंहि॑ष्ठम् । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

हे ऋत्विजः वोयुष्मदीयं अंधसः सोमलक्षणमन्नं आपांतं आभिमुख्येन पिबतम् । पा पाने छान्दसः शपोलुक् सर्वेविधयश्छन्दसिविकल्यन्तेइति नलोकाव्ययेति षष्ठीप्रतिषेधाभावः । ततोन्धसइत्यस्य कर्तृकर्मणोरितिषष्ठी । सोममाभिमुख्येन पिबन्तमेतादृशमिन्द्रं प्रगायत प्रकर्षे णाभिष्टुत । कीदृशं विश्वसहं सर्वेषां शत्रूणामभिभवितारं सर्वेषां भूतजातानां वा । अतएव शतक्रतुं बहुविधप्रज्ञानं बहुविधकर्माणं वा चर्षणीनां मनुष्याणां मंहिष्ठं धनस्यदातृतमम् । यद्वा यजमानानां यष्टव्यत्वेन पूजनीयमिन्द्रं गायतेति समन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५