मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २

संहिता

पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
इन्द्र॒ इति॑ ब्रवीतन ॥

पदपाठः

पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् ।
इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥

सायणभाष्यम्

हे ऋत्विग्यजमानाः पुरुहूतं यज्ञेषु बहुभिराहूतं पुरुष्टुतं बहुभिः स्तोत्राशस्त्रादिभिः स्तुतं अतएव गाथान्यं गानयोग्यं गातव्यं सनश्रुतं सनातनतया प्रसिद्धं एवंविधं देवं इन्द्रइति यूयं ब्रवीतन ब्रूयात । ब्रूञ् व्यक्तायां वाचि इत्यस्य लोटि व्यत्ययेन ध्वमस्तनबादेशः अतएवगुणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५