मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ३

संहिता

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।
म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥

पदपाठः

इन्द्रः॑ । इत् । नः॒ । म॒हाना॑म् । द॒ता । वाजा॑नाम् । नृ॒तुः ।
म॒हान् । अ॒भि॒ऽज्ञु । आ । य॒म॒त् ॥

सायणभाष्यम्

इन्द्रइत् पूर्वोक्तलक्षणइन्द्रएव नोस्मभ्यं महानां महतां वाजानामन्नानां यद्वा महानां वर्णव्यत्ययः मघानां धनानां वाजानामन्नानांच दाता भवतु । कीदृशः नृतुः नृतिशृध्योः कूरितिकूप्रत्ययः ह्रस्वश्छान्दसः । सर्वस्य नर्तयिता यद्वा नॄनये औणादिकः तुप्रत्ययः धातोर्ह्रस्वश्छान्दसः स्तोतृभ्यो गवादिनेता अतएव महान् सइन्द्रः अभिज्ञु अभिगतजानुकं अस्मभ्यं आयमत् आयच्छतु ददातु । यद्वा सइन्द्रः अभिज्ञु अस्मदभिमुखं आगच्छत् धनं स्वहस्तयोः परिगृह्य अस्मान्नायतु धनं गृहीत्वा अस्मभ्यं ददात्वित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५