मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ८

संहिता

यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् ।
नर॑मवा॒र्यक्र॑तुम् ॥

पदपाठः

यु॒ध्मम् । सन्त॑म् । अ॒न॒र्वाण॑म् । सो॒म॒ऽपाम् । अन॑पऽच्युतम् ।
नर॑म् । अ॒वा॒र्यऽक्र॑तुम् ॥

सायणभाष्यम्

एवंगुणोपेतं इन्द्रं आगमयेत्याह-युध्मं शत्रूणां संप्रहारकं सन्तं अतएवानर्वाणमन्यैरप्रत्यृतं अनभिगतं तस्मात् अनपच्युतं संग्रामेषु शत्रुभिरहिंसितं सोमपां सोमस्य पातारं अस्य सोमस्य मदे सति अवार्यक्रतुं भटैरनिवारणीयकर्माणं नरं सर्वस्य नेतारं एतादृग्गुणोपेतमिन्द्रमागमयेति पूर्वेणसह संबन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६