मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १२

संहिता

व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।
उ॒क्थेषु॑ रणयामसि ॥

पदपाठः

व॒यम् । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । गावः॑ । न । यव॑सेषु । आ ।
उ॒क्थेषु॑ । र॒ण॒या॒म॒सि॒ ॥

सायणभाष्यम्

हे शतक्रतो बहुप्रज्ञान बहुकर्मवन् वा इन्द्र त्वा सर्वतः उ इत्यवधारणे त्वामेव उक्थेषु स्तोत्रशस्त्रादिकेषु वयं रणयामसि इदंतोमसिः । आरणयामः शब्दयामः रमयामइत्यर्थः । तत्रदृष्टान्तः-गावोन यथा गोपालो यवसेषु तृणविशेषेषु गावो गाः पशूनासमन्तात् स्मयति तद्वत् । गावइति सर्ववि- धीनां छन्दसि विकल्पितत्वात् ओत्वाभावः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७