मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १३

संहिता

विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।
अग॑न्म वज्रिन्ना॒शसः॑ ॥

पदपाठः

विश्वा॑ । हि । म॒र्त्य॒ऽत्व॒ना । अ॒नु॒ऽका॒मा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अग॑न्म । व॒ज्रि॒न् । आ॒ऽशसः॑ ॥

सायणभाष्यम्

हे शतक्रतो बहुप्रज्ञेन्द्र मर्त्यत्वना मर्त्यत्वानि सुपांसुलुगिति विभक्तेराजादेशः संज्ञापूर्वकस्य विधेरनित्यत्वाद्दीर्घाभावः । विश्वाहि विश्वान्येव मर्त्य- त्वानि अनुकामाकामानभिलाषाननु गतानि कामोपेतानीत्यर्थः । मनुष्याश्चैप्तानि कामयन्तइत्यर्थः । तथासति हे वज्रिन वज्रवन्निन्द्र यष्टारोवयमपि आशसः आशंसनानि धनादिकामानगन्म अवगच्छामः । गमेर्लेटि बहुलंछन्दसीति शपोलुक् म्वोश्चेति मकारस्य नकारः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७