मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १५

संहिता

स नो॑ वृष॒न्त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।
धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥

पदपाठः

सः । नः॒ । वृ॒ष॒न् । सनि॑ष्ठया । सम् । घो॒रया॑ । द्र॒वि॒त्न्वा ।
धि॒या । अ॒वि॒ड्ढि॒ । पुर॑म्ऽध्या ॥

सायणभाष्यम्

हे वृषन् कामानां वर्षितरिन्द्र सपूर्वोक्तलक्षणस्त्वं सनिष्ठया षणुदाने धनादेर्दातृतमया घोरया सपत्नानां भयकारिण्या अतएव द्रवित्न्वा द्राव- यित्र्या शत्रूणां पलायित्र्या । द्रवतेरित्नुच् प्रत्ययः । पुरंध्या बहूनां धारयित्र्या पोषयित्र्या धिया तादृशेन कर्मणा नोस्मान् समविडृइ समन्ता- त्पालय । अवतेर्लेटि बहुलंछन्दसीति शपोलुक् बहुलवचनात्सिपडडागमः । अस्मान् धनदानादिना रक्षेत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७