मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १६

संहिता

यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।
तेन॑ नू॒नं मदे॑ मदेः ॥

पदपाठः

यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ ।
तेन॑ । नू॒नम् । मदे॑ । म॒दे॒रिति॑ मदेः ॥

सायणभाष्यम्

अत्र सोमः स्तूयते-हे शतक्रतो शतविधप्रज्ञान हे इन्द्र द्युम्नितमः यशस्वितमः योमदः माद्यंत्यनेनेति मदःसोमः यः सोमः नूनं पुरा ते त्वदर्थम- स्माभिरभिषुतोस्ति । तेन अस्माभिः प्रदीयमानसोमेन नूनमिदानीं मदे तत्पानेन मदे तव सजाते सति अस्मानपि मदेः धनादिदानेन त्वं मादय । मदीहर्षे अत्रान्तर्णीतण्यर्थः । बहुलमितिशप् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८