मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १७

संहिता

यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
य ओ॑जो॒दात॑मो॒ मदः॑ ॥

पदपाठः

यः । ते॒ । चि॒त्रश्र॑वःऽतमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।
यः । ओ॒जः॒ऽदात॑मः । मदः॑ ॥

सायणभाष्यम्

हे इन्द्र चित्रश्रवस्तमः अतिशयेन नानाविधकीर्तिः योमदः सोमः ते त्वदर्थमस्माभिरभिषुतः यः सोमः वृत्रहन्तमः अतिरायेन पापानां हन्ता । किंच यः सोमः ओजोदातमः अतिशयेन बलस्य दाता तेनास्माभिर्दीयमानेन सोमेन त्वं माद्येरिति पूर्वेणसंबन्धः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८