मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २०

संहिता

यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।
इन्द्रं॑ सु॒ते ह॑वामहे ॥

पदपाठः

यस्मि॑न् । विश्वाः॑ । अधि॑ । श्रियः॑ । रण॑न्ति । स॒प्त । स॒म्ऽसदः॑ ।
इन्द्र॑म् । सु॒ते । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

यस्मिन्निन्द्रे विश्वाः सर्वाः श्रियः कान्तयः अधि अधिकं भवन्ति अतिशयेन तेजस्वीत्यर्थः । किंच सप्त सप्तसंख्याकाः संसदः सम्यग्यज्ञेषु कर्म- करणार्थं सीदन्तीति संसदो होत्रकाः यस्मिन् रणन्ति सोमप्रदानार्थं रमन्ते । यद्वा यं शब्दयन्ति स्तुवन्ति तं पूर्वोक्तलक्षणमिन्द्रं सुते सोमेभिषुते सति हवामहे वयं सोमपानायाह्वयामः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८