मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २२

संहिता

आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः ।
न त्वामि॒न्द्राति॑ रिच्यते ॥

पदपाठः

आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र इन्दवः स्रवन्तः अस्माभिर्दीयमानाः सोमाः त्वा त्वां आविशन्तु सर्वतः प्रविशन्तु । तत्रदृष्टान्तः-समुद्रमिवसिन्धवः स्यन्दमाना नद्योयथा समुद्रं जलाशयं सर्वतः प्रविशन्ति तद्वत् । यतएवं तस्मात् हे इन्द्र त्वां कश्चिदपि देवोबलेन धनेनवा नातिरिच्यते नातिरिक्तोस्ति सामर्थ्यवान् त्वत्तोधिकोनास्तीत्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९