मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २३

संहिता

वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।
य इ॑न्द्र ज॒ठरे॑षु ते ॥

पदपाठः

वि॒व्यक्थ॑ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम॑स्य । जा॒गृ॒वे॒ ।
यः । इ॒न्द्र॒ । ज॒ठरे॑षु । ते॒ ॥

सायणभाष्यम्

हे वृषन् कामानांवर्षितः हे जागृवे जागरणशीलेन्द्र त्वं तस्य सोमस्य भक्षं पानं प्रति महिना स्वमहिम्ना विव्यक्थ सर्वतो व्याप्तवानसि । व्यचेर्लिटि थलि अभ्यासस्योभयेषामिति संप्रसारणम् । हे इन्द्र यः सोमः ते जठरेषु उदरेषु प्रविशति तस्य पानं व्याप्तवानसीतिशेषः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९