प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ ।
अरं॑ गमाम ते व॒यम् ॥
प॒रा॒कात्ता॑त् । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वाम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ।
अर॑म् । ग॒मा॒म॒ । ते॒ । व॒यम् ॥
हे अद्रिवः वज्रवन्निन्द्र नोस्मदीयागिरः इतोनिर्गताः स्तुतयः पराकात्तात् । चिदप्यर्थः । अतिदूरादपि त्वां नक्षन्त व्याप्नुवन्तु किमुत समीपात्त्वां अश्नुवन्तामिति । नक्षतेर्व्याप्तिकर्मणो नशतेर्वा लेटि सिपि रूपम् । एवं सति स्तोतारो वयं त्वदीयं धनमरमलं पर्याप्तं गमाम त्वत्तो गच्छाम ॥ २७ ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिन एवाह्यसिवीरयुरिति वैकल्पिकःस्तोत्रियः । सूत्रितंच-एवाह्यसिवीरयुरेवाह्यस्यसूनृतेति ।