मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २८

संहिता

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑ ॥

पदपाठः

ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः ।
ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं वीरयुः वीरान् युद्धकर्मणि समर्थान् शत्रून् हन्तुं कामयमानएवासि भवसि खलु । हि प्रसिद्धौ । अतएव त्वं शूरः सामर्थ्यवानेवभवसि । उतापिच स्थिरः संग्रामे धैर्यवान् भवसि एकत्रस्थित्वैव शत्रून् संप्रहरसीत्यर्थः । एवंसति ते तव मनोराध्यं स्तुतिभिराराधनीयमेव यतोनेन मनसा त्वं शत्रुवधं संग्रामे धैर्यादिकंच करोषीति तवमनएव सर्वैः स्तुत्यमित्यर्थः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०