मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् २९

संहिता

ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभि॑ः ।
अधा॑ चिदिन्द्र मे॒ सचा॑ ॥

पदपाठः

ए॒व । रा॒तिः । तु॒वि॒ऽम॒घ॒ । विश्वे॑भिः । धा॒यि॒ । धा॒तृऽभिः॑ ।
अध॑ । चि॒त् । इ॒न्द्र॒ । मे॒ । सचा॑ ॥

सायणभाष्यम्

हे तुविमघ तुविरिति बहुनाम बहुधनवन्निन्द्र विश्वेभिर्विश्वैर्धातृभिः कर्माधारकैः यद्वा देवानां हविर्दानेन पोषयितृभिः सर्वैर्यजमानैः तव रातिर्गवा- श्वधनादिदानं धायि तैर्धार्यतएव । दधातेर्लुङि कर्मणिरूपम् । चिदेवार्थे । अध अतएव हे इन्द्र एवंविध त्वं मे यष्टुर्ममापि सचा धनादिदानेन कर्मसहायोभव ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०