मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २

संहिता

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।
अहिं॑ च वृत्र॒हाव॑धीत् ॥

पदपाठः

नव॑ । यः । न॒व॒तिम् । पुरः॑ । बि॒भेद॑ । बा॒हुऽओ॑जसा ।
अहि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒व॒धी॒त् ॥

सायणभाष्यम्

यइन्द्रः नव नवतिं नवनवतिसंख्याकाः एकोनशतसंख्याकाः शंबरस्य पुरः पुरीः बाह्वोजसा स्वबाहुबलेनैव बिभेद दिवोदासाय भिनत्तिस्म । एकोनशतस्ख्याकाः शंबरस्य पुरः पुरीः बाह्वोजसा स्वबाहुबलेनैव बिभेद दिवोदासाय भिनत्तिस्म । तथाचमंत्रः-दिवोदासायनवतिंचनवेन्द्रः पुरोव्यैरच्छंबरस्येति । सवृत्रहा वृत्रासुरस्यहन्ता सइन्द्रः अहिंच न केनाप्यहन्तव्यं मेघं अपामावरकं वृत्रं वा अवधीत् सइन्द्रोस्माकं धनं ददा- त्वित्युत्तरेण संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१