मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ५

संहिता

यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।
उ॒तो तत्स॒त्यमित्तव॑ ॥

पदपाठः

यत् । वा॒ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ।
उ॒तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥

सायणभाष्यम्

वाशब्दः समुच्चये अपिच हे प्रवृद्ध स्वबलेन प्रवर्धमान सत्पते सतांपते स्वप्रकाशाधिक्येन सतां नक्षत्राणां पते हे इन्द्र नमरै इति मनुष्यवद्वार्धकेनाहं नम्रिये इति यद्यदि मन्यसे बुध्यसे । मृङ्प्राणत्यागे लेट्यडागमः वैतोन्यत्रेत्यैकारः । उतो अपिच तव तत् नम्रिये इति मननं सत्यमित् यथार्थमेव । इन्द्रो नम्रियते इत्यर्थे मंत्रान्तरं-नह्यस्याअपरंचनजरसामरतेपतिरिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१