मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ७

संहिता

तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ॥

पदपाठः

तम् । इन्द्र॑म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय॑ । हन्त॑वे ।
सः । वृषा॑ । वृ॒ष॒भः । भु॒व॒त् ॥

सायणभाष्यम्

यजमानाआहुः तं पूर्वोक्तलक्षणमिन्द्रं वाजयामसि वाजयामः सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थं महे महते वृत्राय अपामावरकं वृत्रासुरं हन्तवे हन्तुं सोमपानेन मत्तः स्तुतिभिर्वा स्तुतःसन् वृत्रहन्तवे वाजयामसि वाजवन्तं करोतीत्यर्थे तत्करोतीति णिच् णाविष्ठवदिति- णेरिष्ठवद्भावात् टेरिति टिलोपः विन्मतोर्लुगितिवचनान्मतुपोलुक् । वृषा धनानां सेक्ता दाता सइन्द्रः वृषभः अस्माकं स्तोतॄणां सोमस्यदातॄणां धनादिसेचको दाता भुवत् भवतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२