मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ९

संहिता

गि॒रा वज्रो॒ न सम्भृ॑त॒ः सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥

पदपाठः

गि॒रा । वज्रः॑ । न । सम्ऽभृ॑तः । सऽब॑लः । अन॑पऽच्युतः ।
व॒व॒क्षे । ऋ॒ष्वः । अस्तृ॑तः ॥

सायणभाष्यम्

गिरास्तुतिलक्षणया वाचा स्तोतृभिः संभृतः उत्पादितः तीक्ष्णीकृतः । तत्रदृष्टान्तः-वज्रोन वज्रायुधं यत्कर्तृभिर्निशितधारो यथाभवति तीक्ष्णीक्रि- यते तद्वत् स्तोतृभिः स्तुत्या संभृतः अतएव सबलः बलसहितः तस्मादनपच्युतः परैरप्रच्युतः अनभिगतइत्यर्थः तादृशः ऋष्वोमहान् दीप्यमानोवा अस्तृतः युद्धे शत्रुभिरहिंसितइन्द्रः ववक्षे स्तोतृभ्योधनादिकं वोढुमिच्छति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२