मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १०

संहिता

दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।
त्वं च॑ मघव॒न्वशः॑ ॥

पदपाठः

दुः॒ऽगे । चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥

सायणभाष्यम्

हे गिर्वणः गीर्भिर्वननीयेन्द्र गृणानः स्तोतृभिः स्तूयमानस्त्वं नोस्माकं दुर्गेचित् दुर्गमेपि मार्गे सुगं सुगमं पन्थानं कृधि तथाकुरु । हेमघवन् धनव- न्निन्द्र त्वं चशब्दश्चेदर्थे यदि वशः सोमपानार्थं तत्प्रदातॄनस्मान् कामयेथाः तदा पन्थानं शोभनगमनं कुरुष्व वष्टेर्लेट्यडागमः चशब्दयोगाद- निघातः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२