यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।
न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥
यस्य॑ । ते॒ । नु । चि॒त् । आ॒ऽदिश॑म् । न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ।
न । दे॒वः । न । अध्रि॑ऽगुः । जनः॑ ॥
हे इन्द्र यस्य ते तव आदिशं आदिशति नयति सर्वत्र अनयेति आदिग्बलं औणादिकः करणेप्रत्ययः । यद्वा आदेशएवादिक् आज्ञा भावेक्विप् त्वदीया- माज्ञां नूचिदिदानीं पुराच नमिनन्ति केचिदपि न हिंसन्ति । किंच स्वराज्यं तव स्वभूतं राज्यंच यद्वा स्वशब्देन स्वर्गोभिधीयते स्वर्गस्वामित्वं च । नहिंसन्ति हिंसकानाह नदेवः त्वदन्योदेवोपिच तथाप्यध्निगुःअधृतगमनः संग्रामेत्वरमाणो वीरोपि नच जनः प्रादुर्भूतोमनुष्योपि एते नमिनन्ती- त्यर्थः ॥ ११ ॥