मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १३

संहिता

त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।
परु॑ष्णीषु॒ रुश॒त्पयः॑ ॥

पदपाठः

त्वम् । ए॒तत् । अ॒धा॒र॒यः॒ । कृ॒ष्णासु॑ । रोहि॑णीषु । च॒ ।
परु॑ष्णीषु । रुश॑त् । पयः॑ ॥

सायणभाष्यम्

अस्य सामर्थ्यमेवोपपादयति हे इन्द्र कृष्णासु कृष्णवर्णासु गोषु तथा रोहिणीषु वर्णादनुदात्तात्तोपधात्तोनइतिङीप् रोहितवर्णासुच परुष्णीषु गोषु रुशत् रोचतेर्दीप्तिकर्मणः दीप्यमानं श्वेतं एतत्परिदृश्यमानं पयः क्षीरं त्वमधारयः धारयसि तस्मात् त्वद्बलं पूजयतइति समन्वयः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३