मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १४

संहिता

वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।
वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ॥

पदपाठः

वि । यत् । अहेः॑े॑ । अध॑ । त्वि॒षः । विश्वे॑ । दे॒वासः॑ । अक्र॑मुः ।
वि॒दत् । मृ॒गस्य॑ । तान् । अमः॑ ॥

सायणभाष्यम्

अधापिच अहेः अहन्तव्यस्य वृत्रासुरस्य त्विषः तेजोरूपादुच्छ्वासाद्भीताः यद्वा तस्यप्रभावेन परिगमिता विश्वे सर्वे देवासो देवाः यद्यदा व्यक्रमुः विविधं पादविहरणमकुर्वन् स्वस्थानं परित्यज्यान्यंदेशमगच्छन्नित्यर्थः । तदानीं मृगस्य । एवंतान् भीषयितुं वृत्रो मृगरूपोभवत् तद्रूपस्य संबन्धि अमः सर्वतोगमनशीलं बलं तज्जातं भयंवा तान् सर्वान् देवान् विदत् अविन्दत् प्राप्नोदित्यर्थः । तस्यासुरस्येन्द्रो निवारको- हन्ता भवदित्युत्तरेण संबन्धः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३