मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १५

संहिता

आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।
अजा॑तशत्रु॒रस्तृ॑तः ॥

पदपाठः

आत् । ऊं॒ इति॑ । मे॒ । नि॒ऽव॒रः । भु॒व॒त् । वृ॒त्र॒ऽहा । अ॒दि॒ष्ट॒ । पौंस्य॑म् ।
अजा॑तऽशत्रुः । अस्तृ॑तः ॥

सायणभाष्यम्

आत् उइत्यवधारणे देवानां भीत्या सर्वतोगमनानन्तरमेव मे स्तोतृस्तुत्यलक्षक्षणेन संबन्धेन मम संबन्धी अयमिन्द्रः निवरः वृत्रासुरस्य निवारयिता हन्ता भुवत् अभवत् । ततो वृत्रहा वृत्रस्य हन्तेन्द्रः पौंस्यं पुंसः कर्म पौंस्यम् । यद्वा बलनामैतत् स्वबलं अदिष्ट यस्य राज्ये दिशति निदधाति तद्राज्यं स्ववशमकरोत् इत्यर्थः । ततः प्रभृति इन्द्रः अजातशत्रुः अनुत्पन्नशत्रुः अस्तृतः संग्रामे परैरहिंसितश्चाभवत् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३