मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १८

संहिता

बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।
शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥

पदपाठः

बो॒धित्ऽम॑नाः । इत् । अ॒स्तु॒ । नः॒ । वृ॒त्र॒ऽहा । भूरि॑ऽआसुतिः ।
शृ॒णोतु॑ । शु॒क्रः । आ॒ऽशिष॑म् ॥

सायणभाष्यम्

अथ परोक्षकृतः वृत्रहा वृत्रहन्ता भूर्यासुतिः बहुषुदेशेषु इन्द्रार्थ सोमआसूयतेभिषूयतइति तादृशः । यद्वा बहूनि सोमादिहवींषि इन्द्रार्थं आसूयन्ते हूयन्तेइति तादृशः बोधिन्मनाः बुधअवगमने औणादिकइनिप्रत्ययः यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः इदवधारणे नोस्माकं यज्ञेभवत्विति । ततः शक्रः संग्रामे शत्रुहननसमर्थइन्द्रः आशिषं अस्मदीयां स्तुतिं आशासनं वा शृणोतु ॥ १८ ॥ ज्योतिष्टोमे चातुर्विंशिकेहनि माध्यन्दिने मैत्रावरुणस्य कयात्वंनऊत्येति तृचोनुरूपः सूत्रितंच-होत्रकाणां कयानश्चित्रआभुवत् कयात्वंन- ऊत्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४