मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २३

संहिता

इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।
अच्छा॑वभृ॒थमोज॑सा ॥

पदपाठः

इ॒ष्टाः । होत्राः॑ । अ॒सृ॒क्ष॒त॒ । इन्द्र॑म् । वृ॒धासः॑ । अ॒ध्व॒रे ।
अच्छ॑ । अ॒व॒ऽभृ॒थम् । ओज॑सा ॥

सायणभाष्यम्

अपांजग्मिरिति सामर्थ्यादवभृथदिनएवकुर्वन्तीत्युक्तं तत्प्रसंगादाह-अध्वरेस्मदीये यज्ञे वृधासो हविर्भिरिन्द्रं वर्धयन्तः इष्टा इष्टवन्तो यागं कृतवन्तः सप्तसंख्याका होत्राः होत्रका अवभृथमन्त्यदिवसं अच्छ प्रति ओजसा स्वतेजसा सहिता इन्द्रमसृक्षत विसृजन्ति । यावदवभृथं सप्तहोत्रका यजन्तीति ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५