मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २४

संहिता

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥

पदपाठः

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।
वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥

सायणभाष्यम्

एषाव्याख्याता । अत्रापि वाक्यार्थोविधीयते-सधमाद्या इन्द्रेणसह हविर्भिस्तर्पयितव्यौ यद्वा संग्रामे सहमाद्यन्तौ हिरण्यकेश्या हिरण्मयस्कन्धग- तकेशवन्तौ त्या तौ प्रसिद्धौ हरी हरितवर्णावेतन्नामकावश्वौ इहास्मिन्यज्ञे हितं हितकरं प्रयो हवीरूपमन्नं अभिलक्ष्य वोह्ळां इन्द्रं वहतां प्रापयतामिति ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५