मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २७

संहिता

आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।
स्तो॒तृभ्य॑ इन्द्र मृळय ॥

पदपाठः

आ । ते॒ । द॒धा॒मि॒ । इ॒न्द्रि॒यम् । उ॒क्था । विश्वा॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

सायणभाष्यम्

हे शतक्रतो इन्द्र ते तव इन्द्रियं वीर्यवन्तं सोमं विश्वा उक्था सर्वाणि स्तोत्राणि आदधामि संपादयामि । हे इन्द्र त्वं स्तोतृभ्यः मृळय सुखय ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६