मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ३१

संहिता

उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥

पदपाठः

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् । या॒हि । म॒दा॒ना॒म् । प॒ते॒ ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

सायणभाष्यम्

हे मदानांपते माद्यन्तेनेनेति मदाः सोमाः मदोनुपसर्गे इति करणे अप् प्रत्ययः सोमानां स्वामिन्निन्द्र हरिभिः । आशतेनहरिभिरित्यादिषु । बहूनामश्वानां श्रुतेरत्रापि शतसहस्रसंख्याकैरश्वैः सह नोस्माकं यज्ञे सुतमभिषुतं सोममुपयाहि तत्पानार्थं शीघ्रमायाहि पुनरुपनइत्यादरार्थः ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७