मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् १

संहिता

गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् ।
यु॒क्ता वह्नी॒ रथा॑नाम् ॥

पदपाठः

गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । मा॒ता । म॒घोना॑म् ।
यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥

सायणभाष्यम्

मघोनां धनवतां मरुतां माता निर्मात्री गौः पृश्नियैवैपयसोमरुतोजाताइति श्रुतेः । यद्वा गौर्माध्यमिकीवाक् तत्रैव मध्यमस्थाने मरुतामपि वर्तनात् तेषां तत्पुत्रत्वमुपचर्यते धयति सोमं पिबति पाययविवा स्वपुत्रान् मरुतः । किमिच्छन्ती श्रवस्युरन्नं कामयमाना कीदृशी रथानां मारुतानां वह्रिः पृषतीभिर्वडवाभिर्वोढ्री संयोजयित्री सायुक्ता सर्वत्र समन्तात्पूज्या भवति ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८