मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् २

संहिता

यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते ।
सूर्या॒मासा॑ दृ॒शे कम् ॥

पदपाठः

यस्याः॑ । दे॒वाः । उ॒पऽस्थे॑ । व्र॒ता । विश्वे॑ । धा॒रय॑न्ते ।
सूर्या॒मासा॑ । दृ॒शे । कम् ॥

सायणभाष्यम्

गौः सर्वदेवमयीत्याह यस्या मरुतां मातुः गोरुपस्थे वर्तमानाः विश्वे सर्वे देवाः व्रता व्रतानि स्वस्वकर्माणि धारयन्ते बिभ्रति इयमेवास्माकं स्वप- योमिश्रितस्य सोमस्य दात्रीति सर्वे तत्समीपे तिष्ठन्तीत्यर्थः । किंच सूर्यामासा माति स्वकलाभिस्तिथीनिति माश्चंद्रमाः देवताद्वंद्वेचेत्युभयपद- प्रकृतिस्वरत्वम् । सूर्याचन्द्रमसौ दृशे दर्शनाय सर्वलोकप्रकाशनायच यस्या गोः समीपे कं सुखेन वर्तमानौ भवतः सेयंगौः सोमं धयतीति पूर्वेण समन्वयः ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८