मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ३

संहिता

तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ ।
म॒रुत॒ः सोम॑पीतये ॥

पदपाठः

तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।
म॒रुतः॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

अर्यः स्तोत्रकरणार्थमितस्ततोगन्तारो नोस्मदीया विश्वे सर्वे कारवः स्तोतारः तन्मरुतां बलं सदा सर्वदा सु सुष्ठु आगृणन्ति आभिमुख्येन स्तुतिभिः स्तुवन्ति । किमर्थं सोमपीतये अस्माभिर्दीयमानं सोमं पातुं मरुतएतन्नामकादेवा अस्माभिराह्वातव्याः खलु ततः पुरस्तात्तद्बलं स्तुवन्ती- त्यर्थः ॥ ३ ॥ पूर्वभिहितएवशस्त्रे अस्तिसोमइति स्तोत्रियस्तृचः । सूत्रंतु पूर्वेणसहोदाहृतम् ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८