मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ५

संहिता

पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।
त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥

पदपाठः

पिब॑न्ति । मि॒त्रः । अ॒र्य॒मा । तना॑ । पू॒तस्य॑ । वरु॑णः ।
त्रि॒ऽस॒ध॒स्थस्य॑ । जाऽव॑तः ॥

सायणभाष्यम्

नकेवलं मरुतएव सोमपातारः । किंतु एतेपीत्याह-मित्रः सर्वेषां स्वस्वकर्मणि प्रवर्तकत्वात्साखिभूतः अर्यमाच वरुणः दुःखादीनां शत्रूणांवा वरिता निवारकः एतन्नामकास्त्रयोदेवाः तना ततमूर्णास्तुकेनेति तनं दशापवित्रं सुपांसुलुगिति तृतीयायाअलादेशः तनाद्युदात्तः तनापूतस्य परिशोधितं त्रिसधस्थस्य सहतिष्ठन्त्यत्रेति सधस्थं स्थानं द्रोणकलशाधवनीयपूतभृदाख्यानि त्रीणि स्थानानि यस्य तत्तथोक्तं तादृशं जावतः स्तुत्यजनवन्तमिमं सोमं पिबन्ति । द्वितीयार्थेषष्ठ्यः ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८