मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ६

संहिता

उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑ः सु॒तस्य॒ गोम॑तः ।
प्रा॒तर्होते॑व मत्सति ॥

पदपाठः

उ॒तो इति॑ । नु । अ॒स्य॒ । जोष॑म् । आ । इन्द्रः॑ । सु॒तस्य॑ । गोऽम॑तः ।
प्रा॒तः । होता॑ऽइव । म॒त्स॒ति॒ ॥

सायणभाष्यम्

उतो अपिच इन्द्रः सुतस्य अस्माभिरभिषुतस्य गोमतः गव्यैर्मिश्रणवतः अस्य अन्वादेशः पूर्ववद्दशापवित्रेण पूतस्य सोमस्य जोषं पानरूपां सेवां प्रातः प्रातःसवने नु क्षिप्रं आमत्सति मदिस्तुत्यादिषु आभिमुग्व्येन स्तौति । यद्वा सोममेवकामयते । तत्रदृष्टान्तः-होतेव यथा होता प्रातःसवने देवानभिष्टौति देवान् स्तोतुं वाभिवांछति ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८