कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ ।
अर्ष॑न्ति पू॒तद॑क्षसः ॥
कत् । अ॒त्वि॒ष॒न्त॒ । सू॒रयः॑ । ति॒रः । आपः॑ऽइव । स्रिधः॑ ।
अर्ष॑न्ति । पू॒तऽद॑क्षसः ॥
ऋषिर्मरुतो बहुवारंस्तुत्वेदानीमात्मानं वितर्कयति सूरयः प्राज्ञाः आपइव उदकानीव तिरः यथा उदकानि तिर्यग्गाच्छन्ति तद्वत्तिरश्चीनगतयः सन्तः कत्कदा अत्विषन्त त्विषदीप्तौ अन्तरिक्षे कदादीप्यन्ते । किंच स्रिधः शत्रूणां शोषकाहन्तारः तइमे मरुतः पूतदक्षसः सुद्धबलाः सन्तः कदावा अर्षन्ति अस्मदीयं यज्ञं प्रत्यागच्छन्ति ॥ ७ ॥