मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् १२

संहिता

त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

त्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

त्यं तं सर्वत्रविस्तृतं गिरिष्ठां गिरिषु मेघेषु पर्वतेषु वा तिष्ठन्तं वृषणं उदकानां कामानां वा वर्षितारं मारुतं मरुत्संबन्धिनं गणं संघं नु क्षिप्रं हुवे बिंदुरहमाह्वयामि । किं प्रयोजनं अस्य अस्मदीयस्य सोमस्य पीतये पानाय ॥ १२ ॥

आत्वेति नवर्चं द्वितीयंसूक्तं आनुष्टुभमैन्द्रं तिरश्चीनामांगिरसऋषिः । तथाचानुक्रम्यतेआत्वानव तिरश्चीरांगिरस आनुष्टुभमिति । आभिप्लविकेषुक्थ्येषु तृतीयसवनेच्छावाकस्यात्वागिरइति तृचोवैकल्पिकोनुरूपः सूत्र्यतेहि-गायन्तित्वागायत्रिण आत्वागिरोरथीरिवेति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९