मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् १

संहिता

आ त्वा॒ गिरो॑ र॒थीरि॒वास्थु॑ः सु॒तेषु॑ गिर्वणः ।
अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ॥

पदपाठः

आ । त्वा॒ । गिरः॑ । र॒थीःऽइ॑व । अस्थुः॑ । सु॒तेषु॑ । गि॒र्व॒णः॒ ।
अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥

सायणभाष्यम्

हे गिर्वणः गीर्भिर्वननीयेन्द्र सुतेषु अभिषुतेषु सत्सु गिरोस्माकं स्तुतिलक्षणावाचः त्वा त्वां आस्थुः आभिमुख्येन शीघ्रं तिष्ठन्ति । तत्रदृष्टान्तः- रथीरिव यथा रथवान् रथेन गच्छन् वीरः प्राप्यं देशं क्षिप्रं गच्छति तद्वदस्माभिरपिगन्तव्यं त्वां स्तुतयोभिगच्छन्ति । किंच हे इन्द्र अस्मदीयागिरः त्वा त्वामभिलक्ष्य समनूषत सम्यक् शब्दायन्ते स्तुवन्तीत्यर्थः । नूस्तवने कुटादिः तस्य लुङिरूपम् । तत्रदृष्टान्तः-वत्संन मातरः यथा मातरोगावः वत्सं अभिलक्ष्य हंभारवादिशब्दं कुर्वन्ति तद्वत् ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०