मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् २

संहिता

आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।
पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥

पदपाठः

आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥

सायणभाष्यम्

हे गिर्वणोगीर्भिर्वननीयेन्द्र शुक्राः ग्रहेषु पात्रेषुच दीयमानाः सुतासोस्माभिरभिषुताः सोमाः त्वा त्वां आचुच्यवुः आगच्छन्तु । च्युङ्प्लुङ्गतौ लुङि बहुलंछन्दसीति शपःश्लुः ततस्त्वमस्माभिर्दीयमानस्यास्यांधसः सोमस्य भवदीयं भागं तु क्षिप्रं पिब । यद्वा क्रियाग्रहणंकत्रव्यमिति संप्रदानं चतुर्थ्यर्थे बहुलंछन्दसीति षष्ठी तदिदंसोमरूपमन्नं शीघ्रं पिब । तदेवोपपादयति-हे इन्द्र विश्वासु सर्वासु दिक्षु ते त्वदर्थं सोमपुरोडाशादिहविर्हितं निहितं भवति ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०