मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ३

संहिता

पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।
त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥

पदपाठः

पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् ।
त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं श्येनाभृतं हृग्रर्भश्छन्दसीति हकारस्यभकारः द्युलोकात् श्येनरूपया गायत्र्या आहृतं सुतमभिषुतं सोमं मदाय हर्षाय पिब कमितिपूरणः सुखार्थेवा सुखेन सोमं पिब । हिशब्दो हेतौ हि यस्मात्त्वं शश्वतीनां बह्वीनां विशां मरुद्गणानां सर्वेषां देवगणानां च पतिः पालयिता स्वामी असि भवसि तथा राजा स्वतेजसा दीप्यमानश्चासि अतस्त्वं पुर्वं सोमं पिबेति ॥ ३ ॥ आभिप्लविकेषूक्थेषु तृप्तीयसवनेच्छावाकस्य श्रुधीहवंतिरश्च्याइति वैकल्पिकः स्तोत्रियः । सूत्रितंच-श्रुधीहवंतिरश्च्या आश्रुत्कर्णश्रुधीहवमिति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०