मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ४

संहिता

श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।
सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥

पदपाठः

श्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ ।
सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र यः त्वा त्वां सपर्यति सपरशब्दः कंड्वादिः हविर्भिः परिचरति तादृशस्य तिरश्च्यः एतन्नामकस्य ऋषेः मम हवं स्तुतिभिः त्वद्विषयमाह्वानं श्रुधि शृणु । श्रुत्वाच हे इन्द्र त्वं सुवीर्यस्य शोभनवीर्योपेतस्य यद्वा वीरे पुत्रे भवं वीर्यं सुपुत्रवतः गोमतः गवादिपशुमतः रायोधनस्यदानेन पूर्धि अस्मान्पूरय । एतत्सामर्थ्यं कुतइत्यतआह-त्वं महान् गुणाधिकः देवानां श्रेष्ठश्चासि भवसि खलु ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०