मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ५

संहिता

इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।
चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥

पदपाठः

इन्द्र॑ । यः । ते॒ । नवी॑यसीम् । गिर॑म् । म॒न्द्राम् । अजी॑जनत् ।
चि॒कि॒त्वित्ऽम॑नसम् । धिय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युषी॑म् ॥

सायणभाष्यम्

हे इन्द्र योयजमानो नवीयसीं नवतरां पुनःपुनः क्रियमाणतया मन्द्रां मदकरीं गिरं स्तुतिलक्षणां वाचं ते त्वदर्थं अजीजनत् उदपीपदत् अकार्षीदि- त्यर्थः । तस्मै स्तोत्रे त्वं पत्नां पुरातनं ऋतस्य संबन्धि यद्वा तृतीयार्थे षष्ठी सत्येन पिप्युषी प्रवृद्धं लिड्यङोश्चेति प्यायतेःपीभावः तादृशं चिकि- त्विन्मनसम् । कितज्ञाने क्वसौ रूपं आकारस्येकारश्छान्दसः चिकित्वांसि ज्ञातानि सर्वेषां हृदयानिययेति अमायया क्रियमाणं यत्तवरक्षणं सर्वेषां हृदयं प्रज्ञापयतीति तत्अतीन्द्रियार्थदर्शकं धियं त्वदीयं रक्षणाख्यं तस्मै कुरु ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०