मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ६

संहिता

तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।
पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यम् । गिरः॑ । इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः ।
पु॒रूणि॑ । अ॒स्य॒ । पौंस्या॑ । सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥

सायणभाष्यम्

ऋषयः परस्परमाहुः तं पूर्वोक्तलक्षणं उइत्यवधारणे तमेवेन्द्रं स्तवाम स्तुतिभिः स्तुमः । यं इन्द्रं गिरोस्माकं स्तुतयः उक्थानि शस्त्राणिच वावृधुः प्रावर्धयन् तं स्तुमः । ततोवयं अस्येन्द्रस्य पुरूणि बहूनि पौंस्या वीर्याणि सिसासन्तः षणसंभक्तौ सनीडभावपक्षे आत्वेकृते सनोते- रनइति सांहितिकं षत्वं तानि वीर्याणि संभक्तुमिच्छन्तः सन्तः वनामहे तमिन्द्रं स्तुतिभिः संभजामहे ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१