मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ३

संहिता

इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ ।
शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष॑न्त॒ श्रुत्या॑ उपा॒के ॥

पदपाठः

इन्द्र॑स्य । वज्रः॑ । आ॒य॒सः । निऽमि॑श्लः । इन्द्र॑स्य । बा॒ह्वोः । भूयि॑ष्ठम् । ओजः॑ ।
शी॒र्षन् । इन्द्र॑स्य । क्रत॑वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै॑ । उ॒पा॒के ॥

सायणभाष्यम्

उक्तगुणस्य इन्द्रस्य वज्रआयसः अयसा निर्मितः अयोमयइत्यर्थः सवज्रः इन्द्रेण स्वहस्ते निमिश्लः संमिश्रः अत्यन्तं संबद्धःकृतः अतएव इन्द्रस्य बाह्वोर्भुजयोर्भूयिष्ठं बहुतममोजोवीर्यमस्ति । तथानिरेके निपूर्वाद्रिच्यतेर्वा निस्पूर्वादेतेर्वेति संदेहादनवग्रहः । निर्गमने यदा युद्धार्थमिन्द्रोनिर्गच्छति तदानीमिन्द्रस्य शीर्षन् शिरसि क्रतवः कर्माणि शिरस्राणनिधानादीनि । यद्वा शिरइति गलप्रभृत्यूर्ध्वमंगमुच्यते तत्रत्याभ्यामक्षिभ्यां दर्शनप्रेरणादीनि कर्माणि भवन्ति । तथा आसन् आस्यस्य आसन्नादेशः आस्येच यानि कर्माणि युद्धार्थं वाजिनो गजान् संनाहयतेत्यादीनि भवन्ति । किंच श्रुत्यै संग्रामाय निर्गच्छतोनुशासत इन्द्रस्य वाक्यश्रवणार्थं सर्वे उपजीविनो भृत्याः उपाके अन्तिके एषन्त । अयमिंद्रोस्मान् कुत्रकुत्र कार्ये नियोक्ष्यतीत्येतेन मनसा तदन्तिके समन्तादागच्छन्ति । ईषगतिहिंसादर्शनेषु भौवादिकः ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२